Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 99
________________ ९४ जिनदत्तचरित्रे शास्ति तातः सुतं श्रेयः श्रुतिरेषा कृताऽन्यथा । त्वया मोहतमश्छन्नं मार्ग दर्शयता मम ॥ ८५ ॥ सन्ति पुत्रास्तवाऽन्येऽपि कस्मैचिंद्दीयतां ततः। अहं च साधयिष्यामि त्वत्समीपे निजं हितम् ॥ ८६ ॥ इत्यादिकं वदन्शेषमित्रतातादिभिर्बहु। बोधितः प्रतिजग्राह जनकस्य पदं तदा ॥ ८७ ॥ देशकोशादिकं तस्मै राज्यालंकृतिभिः समम् । अभिषेकं विधायऽऽशु ददौ तत्र महोत्सवे ॥८८॥ अन्येषां च तनूजानां यथायोग्यं प्रदाय सः । सर्वाः सम्भावयामास प्रकृतीः कृत्यकोविदः ॥ ८९॥ कान्तास्ततो विगतरागविशुद्धबुद्धिः प्रोवाच चारुचरिताहितचित्तवृत्तिः । रागेण रोषवशतो रतिकैतवेन मानेन मुग्धमनसा मदनेन यच्च ॥ ९०॥ प्रोक्ताश्चिरं तदखिलं क्षमये त्रिधाऽहं श्रुत्वेति ताश्चरणमूलगताः समूचुः । क्षान्तं समस्तमपि नाथ! सदाऽस्माभिः । क्षम्यं त्वयाऽपि सकलं च दुरीहितं नः॥९१ ॥ युग्मं । संपृच्छय सर्वमिति लोकमलोलचित्तो .. यत्रैव चन्दनतरुस्तत एव सर्पः । १ अस्माभिरित्यर्थः “स्वार्थे कः"। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 97 98 99 100 101 102