________________
९४
जिनदत्तचरित्रे
शास्ति तातः सुतं श्रेयः श्रुतिरेषा कृताऽन्यथा । त्वया मोहतमश्छन्नं मार्ग दर्शयता मम ॥ ८५ ॥ सन्ति पुत्रास्तवाऽन्येऽपि कस्मैचिंद्दीयतां ततः। अहं च साधयिष्यामि त्वत्समीपे निजं हितम् ॥ ८६ ॥ इत्यादिकं वदन्शेषमित्रतातादिभिर्बहु। बोधितः प्रतिजग्राह जनकस्य पदं तदा ॥ ८७ ॥ देशकोशादिकं तस्मै राज्यालंकृतिभिः समम् । अभिषेकं विधायऽऽशु ददौ तत्र महोत्सवे ॥८८॥ अन्येषां च तनूजानां यथायोग्यं प्रदाय सः । सर्वाः सम्भावयामास प्रकृतीः कृत्यकोविदः ॥ ८९॥ कान्तास्ततो विगतरागविशुद्धबुद्धिः
प्रोवाच चारुचरिताहितचित्तवृत्तिः । रागेण रोषवशतो रतिकैतवेन
मानेन मुग्धमनसा मदनेन यच्च ॥ ९०॥ प्रोक्ताश्चिरं तदखिलं क्षमये त्रिधाऽहं
श्रुत्वेति ताश्चरणमूलगताः समूचुः । क्षान्तं समस्तमपि नाथ! सदाऽस्माभिः ।
क्षम्यं त्वयाऽपि सकलं च दुरीहितं नः॥९१ ॥ युग्मं । संपृच्छय सर्वमिति लोकमलोलचित्तो ..
यत्रैव चन्दनतरुस्तत एव सर्पः ।
१ अस्माभिरित्यर्थः “स्वार्थे कः"।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org