SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । शिश्राय साधुपदवीं सुहृदा समेतः संवेगशुद्धहृदयैरपरैश्च भयैः॥ ९२॥ शमदमयमसक्ता गेहवासे विरक्ताः सितसिचयपदेन प्रावृता वा स्वपुण्यैः । जिनपतिपदमूले ता बभूवुर्विरक्ता स्तदनु विशदचित्तास्तस्य कान्ताः समस्ताः ॥९३॥ श्रुतं समस्तं विधिनाङ्गपूर्व प्रकीर्णकाख्यं समधीत्य सम्यक । गुरोः समीपे तपसां निवासः स धर्मदानेन ननन्द पृथ्वीम् ॥ ९४ ॥ कुर्वाणो भववारिराशितरणं तीव्र तपः कारणं सम्यक् सिद्धिसुखस्य संयमनिधिर्धात्रीं विहृत्यागमत् । सम्मेदं मुदिताशयो मुनिजनैः सार्द्ध विबुद्ध्याऽऽत्मनः प्राप्तं प्रान्तमशेषदोषशमनी कृत्वा च सल्लेखनाम् ॥१५॥ तत्राऽऽराध्य चतुर्विधां स विधिना सारां तदाराधनां त्यक्त्वा तीव्रतमैस्तपोभिरधिकं नीत्वा तनुत्वं तनुम् । कल्पेऽनल्पसुखालये समभवत्सम्यक्त्वरत्नाञ्चितो देवो दिव्यविलासिनीजनमनोमाणिक्यचौरोऽष्टमे॥९६॥ अन्ये विशुद्धमतयो यतयः समस्ताः स्वर्गे गताः परिणतेरुचिते निजायाः। प्रान्ते समाधिमधिगम्य मुदाप्सरोभिः सङ्कल्पिताखिलसुखावहकान्तचेष्टाः ॥ ९७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy