SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । कल्याणकारिणी स्वामिन् चेदियं गृहमेधिता । जायते जगतीवन्द्य वृथैवाऽऽर्य श्रमस्तव ॥ ७५ ॥ ततोऽस्तु निर्विकल्पं मे दीक्षणं क्षणभङ्गेरे । एतदेव यतः सारं संसारे साधुसत्तम ॥ ७६ ॥ संविग्नस्य निशम्येति वचस्तस्य महामुनिः । यथाभीष्टं महाबुद्धे ! क्रियतामिति सोब्रवीत् ॥ ७७ ॥ अत्रान्तरे व्रवीत्येष स्वमित्रं मतिकुण्डलम् । पुत्रेभ्यो दीयतां भद्र ? यथायोग्यं पदं लघु ॥ ७८ ॥ तेनाहूता समस्तास्ते प्रणम्योपाविशन्पुरः । योगिनं पितरं सर्वे ज्येष्ठमूचे पिता ततः ॥ ७९ ॥ जानात्येव भवान् वत्स पूर्वक्रममुदारधीः । तपस्यति यथा तातो न्यस्य स्वं सर्वमात्मजे ॥ ८० ॥ अतोऽहं त्वयि विन्यस्याऽऽधिपत्यमिदमादृतम् । विदधामि तपः पुत्र विधेया स्वगृहस्थता ॥ ८१ ॥ आत्मवत्पालयेरेतान्सर्वदैवानुजन्मनः । प्रकृतींश्च समस्तांस्त्वं विरक्ता जातु मा कृथाः ॥ ८२ ॥ परित्यज्य समस्तानि कार्याणि च विशेषतः । कर्म धर्म्यं स्वयं भद्र कुर्याः स्वार्थहितः सदा ॥ ८३ ॥ ततस्तातमुवाचाऽसौ वक्तुमेवं न युज्यते । यतो भुक्ता त्वया सम्पन्मातेव मम सर्वथा ॥ ८४ ॥ Jain Education International ९३ For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy