Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 97
________________ जिनदत्तचरित्रे आर्यखण्डेऽपि सम्पाते दैवादेतन लभ्यते। सुजातिः सुकुलं सर्वशरीरपरिपूर्णता ॥६५॥ कुलजात्यादिसम्पत्तौ गर्भादेव विपत्तयः। शतशः सन्ति योगीन्द्र लंधितास्ताः कथञ्चन ॥ ६६ ॥ तत्रापि मुग्धबुद्धीनां बाल्यं यौवनमङ्गिनाम् । कामग्रहगृहीतानां वार्द्धक्यं विकलात्मनाम् ॥६७॥ अनिष्टाऽभीष्टसंयोगवियोगी धनहीनता। आजन्म रोगभूयस्त्वं परकिङ्करता सदा॥६८॥ इत्येवं दुःखखिन्नानां नराणां सुखसंकथा । मस्तकोपान्तविश्रान्तयमाहीनां सुदुर्लभा ॥ ६९ ॥ देवानामपि दुःखानि मानसानि पदे पदे। पश्यतामन्यदेवानां विभूती वनोत्तमाः ॥ ७० ॥ पातने यानि दुःखानि कन्दतां शरणोज्झितम् । तैश्च नारकदेशीया धुसदोऽपि भवन्ति ते॥७१ ॥ अतोऽनादौ न कालेऽभूद्भाम्यतां भवकानने। सावस्था जायते यस्यां सुखं निर्दुःखमङ्गिनाम् ॥७२॥ न चाऽस्ति किश्चनाऽप्यत्र यन्न सोढं सहस्रशः। दुःखमेतेन जीवेन तनाथाऽजानता हितम् ॥७३॥ इदानीश्च प्रसादेन भवतां भुवनार्चित।। प्राप्ते विवेकमाणिक्यदीपके किं प्रमाद्यते॥७४॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 95 96 97 98 99 100 101 102