Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 90
________________ अष्टमः सर्गः । त्वयाऽपि पारितः साधुभक्तितो मनसा परम् । आशङ्का विहिता मातुस्तद्दानासहना हि सा ॥ ११२ ॥ भुक्त्वा सोऽपि जगामातो यथाभीष्टं मुनीश्वरः । अनुव्रज्य प्रणम्याऽयद्वाणिजोऽपि निजालयम् ॥ ११३ ॥ यत्त्वया विहितं भद्र सिद्धयत्येतन्न कस्यचित् । भाजनं सर्वकल्याणसम्पदां नियतं भवान् ॥ ११४ ॥ प्रशस्येति गतास्तास्तं स्वसद्म मुदितास्तराम् । बुभुजे प्रत्यहं कृत्वाऽतिथीनां संप्रतीक्षणात् ॥ ११५ ॥ यतीशगुणभावितः सहज सौम्यतासङ्गतो वसन्निति विहयिते रसिकचित्तवृत्तिस्तदा । जगाम मृतिगोचरं सुचिरकालतो वाणिजो निरन्तरमिमास्तथा समनुभूय सौख्यं मृताः ॥ ११६ ॥ ॥ इति श्रीभगवगुणभद्राचार्य्यप्रणीते श्रीजिनदत्तचरित्रे अष्टमः सर्गः ॥ ७ ॥ १ अयात अगात् " इति पाठद्वयं । c Jain Education International २ दाने । For Private & Personal Use Only ८५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102