________________
अष्टमः सर्गः ।
त्वयाऽपि पारितः साधुभक्तितो मनसा परम् । आशङ्का विहिता मातुस्तद्दानासहना हि सा ॥ ११२ ॥ भुक्त्वा सोऽपि जगामातो यथाभीष्टं मुनीश्वरः । अनुव्रज्य प्रणम्याऽयद्वाणिजोऽपि निजालयम् ॥ ११३ ॥ यत्त्वया विहितं भद्र सिद्धयत्येतन्न कस्यचित् । भाजनं सर्वकल्याणसम्पदां नियतं भवान् ॥ ११४ ॥ प्रशस्येति गतास्तास्तं स्वसद्म मुदितास्तराम् । बुभुजे प्रत्यहं कृत्वाऽतिथीनां संप्रतीक्षणात् ॥ ११५ ॥ यतीशगुणभावितः सहज सौम्यतासङ्गतो वसन्निति विहयिते रसिकचित्तवृत्तिस्तदा । जगाम मृतिगोचरं सुचिरकालतो वाणिजो निरन्तरमिमास्तथा समनुभूय सौख्यं मृताः ॥ ११६ ॥
॥ इति श्रीभगवगुणभद्राचार्य्यप्रणीते श्रीजिनदत्तचरित्रे अष्टमः सर्गः ॥ ७ ॥
१ अयात अगात् " इति पाठद्वयं ।
c
Jain Education International
२ दाने ।
For Private & Personal Use Only
८५
www.jainelibrary.org