________________
८६
जिनदत्तचरित्रे
नवमः सर्गः ।
अथाऽसौ शिवदेवोऽभूद्भयांस्तद्दानपुण्यतः । श्रेष्ठिनो जीवदेवस्य जिनदत्ताऽभिधः सुतः ॥ १ ॥ प्राप्तस्वं तत एवासि सौख्यं सर्वाङ्गगोचरम् । अथवा लभ्यते किं न पात्रदानेन देहिभिः ॥ २ ॥ तासां यथानुरागेण सर्वदैवाऽसि भावितः । तेनान्यासु न ते स्त्रीषु साभिलाषमभून्मनः ॥ ३ ॥ जननीशङ्कया यच्च संक्लिष्टं हृदयं तदा । विपाकात्तस्य चाडवापि मध्येऽनर्थपरम्परा ॥ ४ ॥ तद्विरामे च सम्पन्नं सम्पदां पदमुत्तमम् । कन्याचतुष्टयं तच्च स्वपरीणामयोगतः ॥ ५ ॥ चम्पायां सिंहलद्वीपे रथनूपुरपत्तने । चम्पायामेव सञ्जातं नारीरत्नचतुष्टयम् ॥ ६ ॥ विमलातिमतिः पूर्वा श्रीमती गदिता परा । शृङ्गारादिमतिश्चान्या विलासादिमतिस्तथा ॥ ७ ॥ परिणीतास्त्वया सर्वास्तत्र तत्र नरान्तरम् । अनिच्छन्त्यः क्रमाद्भुद्र भवत्सङ्गमलालसाः ॥ ८ ॥ माहात्म्यात्तस्य दानस्य सार्धमाभिर्निरन्तरम् । सारं संसारवासस्य भुज्यते भवता सुखम् ॥ ९ ॥ निगद्येति यतौ तत्र विरते स्मृतवानसौ । निजजन्म समं ताभिर्मुमूर्च्छ च ततो द्रुतम् ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org