SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । अचिरादुपचारं स समासाद्य ततो जवात् । अङ्गनाभिः समं पृष्ट उत्थितो विस्मितैर्जनैः ॥ ११ ॥ उदीर्य च तथा वृत्तं जनेभ्यो भव्यबान्धवः । इदं विचिन्तयामास संविग्नो हृदये तदा ॥ १२ ॥ अद्यैव साधुनाऽनेन चक्षुरुद्धाटितं मम । विषयाशाविमुग्धस्य दर्शयित्वा भवान्तरम् ॥ १३ ॥ न मया विहितं किञ्चित्तदा दौर्गत्ययोगतः । अज्ञत्वाच्च तथाऽपीत्थं सम्पदामस्मि भाजनम् ॥ १४ ॥ अत्यल्पमप्यहो न्यस्तं विधिना पात्रसत्तमे । शतशाखं फलत्याशु वटबीजमिव ध्रुवम् ॥ १५ ॥ तावतैव यदि प्राप्तः सम्पदं जगदुत्तमाम् । स्वर्मोक्षसुखसम्पत्तिः सुलभैव ततो ध्रुवम् ॥ १६ ॥ परं चेतयते जन्तुर्नात्मानं मूढमानसः । प्रमादमदमात्सर्यमोहाज्ञानैर्निरन्तरम् ॥ १७ ॥ न माता न पिता नैव सुहृदः स्निग्धबुद्धयः । तथा प्रेमकरा नृणां निस्पृहा यतयो यथा ॥ १८ ॥ जिनशासनमुद्दिश्य दीयते किमपीह यत् । क्रियते कृतकृत्यत्वं तेनैवाऽस्ति विसंशयम् ॥ १९ ॥ अधुनाऽविकला सर्वा सामग्री मम वर्त्तते । परित्यज्य बहिर्भावं विधामि ततो हितम् ॥ २० ॥ तथा ह्ययं महामोहहुताशशमनाम्बुदः । अस्माकमेव पुण्येन समायान्मुनिपुङ्गवः ॥ २१ ॥ Jain Education International For Private & Personal Use Only ८७ www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy