________________
जिनदत्तचरित्र
जर्जरीकुरुतेऽद्यापि न शरीरमिदं जरा। आक्रमन्ती महावेगाद्वात्येव च कुटीरकम् ॥ २२ ॥ विवेकोऽपि स्थिरीभूतो मनागस्य महामुनेः । वचसैव हृदि व्यक्ता विज्ञाता च भवस्थितिः॥२३॥ पादमूले मुनेरस्य विदधामि ततस्तपः। विचिन्त्यति ततो नत्वा समुवाच यतीश्वरम् ॥ २४ ॥ यथा प्रसादतो नाथ भवतः स्वभवो मया। सम्यगध्यक्षतां नीतो नरामरनमस्कृतः ॥२५॥ न कल्पपादपः सूते न च कामदुधा न च । चिन्तामणिरचिन्त्यं यत्फलं त्वत्पादसेवनम् ॥ २६ ॥ तावदन्धो जनः सर्वः सर्वतो बोधशून्यकः। त्वत्पादपद्मपर्यन्तं यावदेति न भक्तितः॥ २७ ॥ भावि भूतं भवद्वस्तु तदस्तीह न भूतले। ज्ञाने तव न यत्स्वामिन् करस्थामलकायते ॥ २८॥ भ्राम्यतां नाथ जीवानामस्मिन्संसारकानने । सम्यग्मार्गोपदेष्टाऽन्यो भवतोऽस्ति न कश्चन ॥ २९ ॥ शरणं च त्वमेवाऽसि सदा दुर्गतिपाततः। त्रस्यतामस्तु ते नाथ प्रसादो मम दीक्षया ॥ ३०॥ स निशम्य वचस्तस्य प्रोवाचेति यतीश्वरः। भव्यचूडामणे ! सूक्तमुक्तं किन्तु परं शृणु ॥ ३१॥ त्वादशां सुकुमाराणां तपो नामैव सुन्दरम् । न जातु सहते जातीकुसुमं हिमवर्षणम् ॥ ३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org