________________
नवमः सर्गः।
वालुका कवलैर्भोक्तं पातुं ज्वाला हविर्भुजः । बद्धं गन्धवहो दोभ्या तरीतुं मकरालयः ॥ ३३ ॥ मेरुस्तोलयितुं खड्गधारायां खलु लीलया। शक्यं सञ्चरितुं जातु प्राप्तुं पारं विहायसः॥ ३४ ॥ न तु नैर्ग्रन्थ्यदाक्षायाः सन्मुखं क्षणमप्यहो। भवितुं भावि यत्तत्र कष्टमेव समन्ततः ॥ ३५॥ विशेषकं । क्षुधादि च तथा ह्यङ्गनोग्न्यमङ्गोपतापकम् । धर्त्तव्यं विधुतोद्दाममनोमल्लविजृम्भितम् ॥ ३६ ॥ मनसाऽपि न यः शक्यः पुंसां चिन्तयितुं स च । महाव्रतमहाभारो धर्तव्यो जीवितावधि ॥ ३७ ॥ स्वच्छंदं स्पन्दनं नैव शृङ्खलाभिरिवाभितः । यकाभिस्ताश्च संसेव्या सदा समितयो ध्रुवम् ॥ ३८ ॥ एकैकशोऽपि यैर्विश्वमाक्रान्तं करणानि च । जेयानि तानि सर्वाणि मनसा सह सर्वदा ॥ ३९॥ यथाकालं च कर्त्तव्यं षडावश्यकमअसा । प्रमादेन विना भद्र श्रद्धासंशुद्धचेतसा ॥ ४० ॥ नितान्तं सुकुमारस्य महामाल्योचितस्य च । कार्य केशकलापस्य लुञ्चनं सुधिया तथा ॥४१॥ रोमवल्कलपत्राद्यावरणान्याप यत्र नो। अचेलक्यं तदत्यन्तक्लेशकारि सहेत कः ॥ ४२ ॥
१ भजनमता। २ याभिः "स्वार्थे क:प्रत्ययः" समितिभिरित्यर्थः ३ वस्त्रादिरहितत्वं ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org