SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जिनदत्तचरित्रे आजन्म मलजल्लादिलिप्तदेहतया स्थितिः। सशर्करा धरा शय्या मुखवासादिवर्जनम् ॥ ४३ ॥ वल्लनं पाणिपात्रेण काले कार्य यथाविधि । स्थितेन सर्वदा सकृत्कायस्य स्थितिहेतवे ॥ ४४ ॥ इति मूलगुणा यत्र समासेन प्रदर्शिताः। त्रिकालयोगसेवाद्या नियमाश्चोत्तरे पराः ॥ ४५ ॥ दुःसहाः सर्वतः सन्ति प्रसृताश्च परीषहाः। ध्यानाध्ययनकर्माणि कर्तव्यानि निरन्तरम् ॥ ४६॥ तत्राऽऽत्मानं कथं क्षेप्तुं सर्वदा सुखलालितम् । शक्नुवन्ति महाबुद्धे ! कोमलाङ्गा भवादृशाः ॥४७॥ पूजा श्रीमजिनेन्द्राणां दानं सर्वाङ्गितर्पकम् । विवेकश्चेदृशो भद्र ! तपोऽन्यत्ते किमुच्यते ॥४८॥ स्वर्गापवर्गसौख्यस्य पारम्पर्येण कारणम् । गार्हस्थ्यमेव यद्युक्तं पालितुं प्रियदर्शनम् ॥ ४९ ॥ अतो गृहस्थभावस्थो ज्ञाततत्त्वो भवानिह । दानपूजारतः शीलसम्पन्नस्तनुताद्धितम् ॥ ५० ॥ विरते प्रतिपद्येति यतीशे स जगाविति । स्मित्वोचितं न नो नाथ गुरूणां दातुमुत्तरम् ॥ ५१ ॥ जानंति चय एवात्र युक्तायुक्तं यथाभवत् । प्रसादो जल्पयत्येष तेषामेव तथापि माम् ॥ ५२॥ तपसो दुष्करत्वं यत्पूर्वमुक्तं महामुने। तत्तथैव समस्तं हि को न वेत्तीति बुद्धिमान् ॥ ५३॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy