SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 1 परं विचार्यते चारुचारित्रेयं भवस्थितिः । यथा यथा कृतं कष्टं प्रतिभाति तथा तथा ॥ ५४ ॥ निशातशस्त्रसंघातघातखण्डितविग्रहाः । परस्परपरीवादशरणाहितनिग्रहाः ॥ ५५ ॥ महावातमहाशीतमहातप कदर्थिताः । स्वकायकर्त्तनग्रासफलवद्भोजनार्थिनः ॥ ५६ ॥ दन्तौष्ठकण्ठहृत्पार्श्वमुखतालुककुक्षिणः । वैतरण्याहता तर्षा वसापूयास्त्रवारिणः ॥ ५७ ॥ धौतासिपत्रसंकाशपत्रकृत्वे वनान्तरे । श्वकाककङ्कगृधाहिश्वापदानां नगान्तरे ॥ ५८ ॥ क्वचिद्यन्त्रैः कचित्कुम्भीपाकैरायसकण्टकैः । क्वचिच्च कूटशाल्मल्यारोहावतरणैरपि ॥ ५९ ॥ शारीरं मानसं वाचं सहन्ते शरणोज्झिताः । यावदायुर्न किं दुःखं नरके नारका भृशम् ॥ ६० ॥ सर्वदैव परायत्तवृत्तयः प्रतिकारतः । विनाऽरण्यभुवो लोकमध्यजास्तुं समन्ततः ॥ ६१ ॥ हेयादेय विकल्पेन विकलाः सर्वदा त्रिधा । सहन्ते दुःखसम्भारं तिर्यञ्चोऽपि दिवानिशम् ॥ ६२ ॥ प्राप्यते पुण्ययोगेन मानुषत्वं कथञ्चन । भ्राम्यता भूरिदुःखासु चिरकालं कुयोनिषु ॥ ६३ ॥ नृत्वेऽप्यनार्यखण्डेषु जन्म यत्र जिनोदितः । स्वप्रेऽपि दुर्लभो धर्मो देहिनामघमोहिनाम् ॥ ६४ ॥ Jain Education International For Private & Personal Use Only ९१ www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy