SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८५ जिनदत्तचरित्रे rv~ वीक्षितश्च ततस्तेन दुर्गतेनेव सन्निधिः। पुण्यपुञ्ज इव स्वस्याऽभिमुखो वा स्ववेश्मनः ॥१०॥ अग्रेभूय स्वतस्तेन प्रत्यग्राहि प्रयत्नतः । उच्चस्थानस्थितस्याऽस्य चक्रे चरणधोवनम् ॥ ११ ॥ तत्प्रवन्धोदकं कृत्वा पूजामष्टविधामसौ। यावद्भोजयते भुक्तिं धर्ममूर्तिमुनीश्वरम् ॥ १०२॥ सूरदेवयशोदेवनन्ददत्तवणिक्सुताः। पद्मावती जयश्रीश्च सुलेखा मदनावली ॥ १०३॥ लात्वा लेहनकं तावत् सर्वाभरणभूषिताः। मत्वा सुवासिनीत्यस्य मातुराप्ता गृहं क्षणात् ॥१०४॥ निविष्टास्तास्ततः सर्वास्तत्रासावपि साधवे । तन्मध्यात्प्रददौ किञ्चित्तद्वाक्यात्तुतुषुश्च ताः॥१०५॥ अचिन्तयश्च ता धन्यतम एष महामतिः । यस्यैवं दुर्गतस्याऽपि धर्मकार्यमहोद्यमः ।। १०६ ॥ नरनाथादयोऽप्यस्थ पादपद्मावलोकनम् । वाञ्छन्तोऽपि लभन्ते न मुनेर्दानं किमुच्यते ॥१०७ ।। अयि लक्ष्मि ! किमन्धासि येनैवं गुणशालिने । सस्पृहा नररत्नाय सात्विकाय न जायसे ॥१०८॥ जन्मना वा धनेनापि विवेकेनाऽपि किं नृणाम् । यदीशे महापात्रे न किञ्चिदुपचर्यते ॥१०९॥ एतस्य यानि पुण्यानि तानि नान्यस्य निश्चितम् । यदेतदृहमायातो दुर्लभो जगतां पतिः ॥ ११० ॥ श्रद्दधे च तदा ताभिस्तद्दानं भक्तिपूर्वकम् । मुहुर्मुनि मुहुस्तं च पश्यन्तीभिः सविस्मयम् ॥ १११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy