________________
अष्टमः सर्गः i
जातेऽन्यदा यतेस्तस्य पारणादिवसे सति । चिन्तितं मानसे तेन तद्गुणग्रामवासिना ॥ ८९ ॥ कस्याऽद्य मन्दिरं पादपांसुभिः पुण्यभागिनः । करिष्यत्यद्य कल्याणभाजनं यतिनायकः ॥ ९० ॥ उत्तमोत्तमभोगानां भाजनं जायतां जनः । कथं न तत्र यत्राऽमी विद्यन्ते पात्रसत्तमाः ॥ ९१ ॥ अत्यल्पेनाऽपि दत्तेन पात्रस्यैवंविधस्य हि । तन्नास्ति प्राप्यते यन्न वाञ्छितं परजन्मनि ॥ ९२ ॥ दर्शनेनैव पापानि नश्यन्त्यस्य रवेरिव । तमांसि कथ्यते किं वा यदि दानादिसङ्गमः ॥ ९३ ॥ मादृशां मन्दभाग्यानां विलीयन्ते मनोरथाः । असम्पूर्णा मनस्येव तरंगा इव वारिधेः ॥ ९४ ॥ आक्रामति विपुण्यस्य पादपद्यैर्न मन्दिरम् । यतो जायते कस्य प्राङ्गणे वा सुरद्रुमः ॥ ९५ ॥ परित्यज्य न पुण्यानि हेतुमस्य वितर्कये । कचनाऽपि यतीशस्य लाभे चिन्तामणेरिव ॥ ९६ ॥ तथाऽपि सावधानोऽस्मि मा कदाचित्तदागमः । व्यवसायवशात्पुंसां जायते विपुलं फलम् ॥ ९७ ॥ विभाव्येति प्रसन्नात्मा धौतवस्त्रोत्तरीयकः । मार्गमन्वेषयंस्तस्य तस्थौ द्वारे स्वसद्मनः ॥ ९८ ॥ अथाऽसौ प्रेरितस्तस्यं पुण्यैरिव यथा मुनिः । तेनैवाssy क्रमात् क्रामन्नुच्चनीचगृहावलीः ॥ ९९ ॥
१ द्वितीयादिनस्य भोजनसमये । २ गृहाङ्गथे ।
Jain Education International
For Private & Personal Use Only
८३
www.jainelibrary.org