SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ जिनदत्तचरित्रे तमालोक्य जनः सर्वो ब्रवीतीति तथा सुतः । समस्तातेन नो जातु रविणेव शनैश्चरः ॥ ७७ ॥ क्रमाच्च यौवनं प्राप्तः कृतदारपरिग्रहः ।। ग्रामान्तरे प्रयात्येव वणिज्यायै दिने दिने ॥ ७८ ॥ ततः किञ्चित्समानीय कुरुते स दिनत्रयम् । स प्रातश्चलितोऽन्येशुात्वा परिकरं निजम् ॥ ७९ ॥ अन्तरेत्र ततस्तेन मूलेऽश्वत्थमहीरुहः । त्रिकालयोगसम्पन्नः सर्वसत्वहितोद्यतः ॥ ८० ॥ महाऽऽरामाधिवासोऽपि नि:कामो मानवर्जितः। भाजनं सर्वमानानां सद्वेषो द्वेषशून्यधीः ॥ ८१ ॥ उद्यतो बन्धविध्वंसे गुप्तित्रितयसंयुतः । नितान्तं शान्तरूपोऽपि सदा समितिभासुरः॥ ८२ ॥ मुरजादिविधिवातकृशताऽऽयातविग्रहः। पञ्चेन्द्रियमनोदुष्टसम्यग्विहितनिग्रहः ॥ ८३॥ मासोपवासमास्थाय निरुद्धसकलेन्द्रियः। पर्यङ्कासनसंस्थानो ध्यायन् सहजमात्मनः ॥ ८४॥ दृष्टोऽदृष्टसमस्तार्थो मुनीन्द्रो विमलाभिधः। प्रणनाम ततस्तस्य पादौ मुदितमानसः ॥ ८५॥ कुलकं । अचिन्तयच्च संसारे द्वावेव सुखिनो जनौ। पद्मातपत्रमाधत्ते यस्य यश्च जितेन्द्रियः ॥ ८६ ॥ चक्रिणोऽपि न तत्सौख्यं यदेतस्य तपस्यतः । रागरोषवशश्चक्री यतिस्ताभ्यां विवर्जितः ॥ ८७ ॥ चिन्तयित्वेति संनम्य भूयो भूयोऽपि भक्तितः । संजगाम यथाऽभीष्टं करोत्येवं च नित्यशः ॥ ८८ ॥ १ पिप्पलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy