SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः। पद्मश्रीरभवत्तस्य पद्मेव मधुविद्विषः । प्रिया प्रकर्षमापन्ना रूपादिगुणगोचरम् ॥ ६६ ॥ अथाऽऽसीद्धनदेवाख्यः श्रीमानत्रैव वाणिजः । समुद्र इव नीराणां गुणानामधिवासभूः ॥ ६७ ।। यशोमतिरिति ख्याता कुलशीलसमुज्ज्वला । बभूव वल्लभा तस्य कुशला गृहकर्मणि ॥ ६८॥ यथाकालं तया सार्द्ध भुंजानस्य निरन्तरम् । सुखं सुतार्थिनो जातो भवानस्य तनूरुहः॥ ६९ ।। यथाकामं ततस्तातो बन्धुलोकसमन्वितः। चकार शिवदेवाख्यां भवतो भव्यबान्धव ॥ ७० ॥ पूर्वपापोदयात्तत्र वर्द्धसे त्वं यथा यथा । क्षीयतेऽर्थः कुटुम्वेन सार्द्ध गेहे तथा तथा ॥७१ ॥ अपरेधुः पतित्वाशु व्योमतो विद्युता ब्रजन् । हट्टमार्गे हतस्ततो यथाऽभूद्भस्मसात्तथा ॥ ७२ ॥ ततः शोकाकुलेनाऽस्य बन्धुलोकेन निर्मितम् । मृतकर्म रुरोदारं माता च करुणं तव ॥ ७३ ।। हा नाथ ? क्व गतस्त्यक्त्वा बालं बालेन्दुसुन्दरम् । कथमेषा भविष्यामि हताशा भवतोज्झिता ॥ ७४ ॥ गतं क्षयं क्षणात्कान्त भवतैव समं धनम् । दिनं दिनाधिपेनेव कथं पुत्रो भविष्यति ॥ ७५ ॥ इत्यादिकं विलप्याऽसौ संलग्ना गृहकर्मणि । ववृधे च भवांस्तत्र दीनमूर्तिः सुदुःखितः ॥ ७६ ॥ १ अतिशयेन। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy