SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८ . जिनदत्तचरित्रे अस्यत्त्र भरतक्षेत्रे देशोऽवन्तिः स्वशोभया। सस्पृहा मर्त्यलोकस्य कृता येन सुरा अपि ॥ ५५ ॥ पतन्ति यत्र शालीनां केदारेषु मधुव्रताः। मलिनोभयपक्षा हि के दारेषु परांमुखाः ॥ ५६ ॥ चक्राङ्किता विराजन्ते राजहंसनिषविताः । मार्गेषु यत्र पद्माढ्या चक्रिणो वा जलाशयाः ॥ ५७॥ सरसा सदलङ्कारा व्यक्तवर्णव्यवस्थितिः। प्रसादौजोयुता यत्र कथेव जनता कवेः ॥ ५८ ॥ तत्राऽस्त्युज्जयिनी नाम नगरी नरसत्तमः। यथेयं राजते हारलतयेव वराङ्गना ॥ ५९ ॥ प्राकारशिखरानद्धपद्मरागाशुभिर्निशि । पतितैः खातिकानीरे रथाङ्गा विरहव्यथाम् ॥ ६० ॥ यत्र सुक्तैव जायन्ते सङ्गमाभिमुखा मुदा । उदयं दिननाथस्य मन्यमाना इवाऽभितः ॥ ६१ ॥युग्मम् । यत्र प्रासादसंलग्ननीलाञ्शुशवलः शशी।। मुदे स्वच्छन्दनारीणां जायते निशि सर्वदा ॥२॥ समग्रवसुधासारसम्पदां जन्मभूमिका।। आवासाय कृता धात्रा या नृणां पुण्यशालिनाम् ॥ ६३॥ तत्र विक्रमधर्माख्यो भूपोऽभूद्धवनान्तरम् । जगाहे लीलया यस्य यशः पूर्णेन्दुसुन्दरम् ।। ६४॥ शोभायै केवलं यस्य चातुरङ्गमभूद्धलम् । प्रतापेनैव यत्सेवां कारिताः सकलारयः ॥६५॥ १ मलिना दारेषु पराङ्मुखा न भवन्ति । २ वा शब्द इवार्थे । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy