________________
अष्टमः सर्गः ।
७९
भवान्धकूपसम्पाति विश्वमाशु भवत्यदः। भवादृशा न चेत्सन्ति रत्नदीपास्तमश्छिदः ॥४४॥ विषयाशाहुताशेन दह्यमाने जगद्वने । उदभूगव्यपुण्येन सुधामेघो भवानिह ॥ ४५ ॥ त्वत्पादपद्मसङ्गेऽपि यस्तत्त्वं नावबुध्यते । मन्दभाग्यः समुद्रेऽपि शंखकानां स भाजनम् ॥ ४६॥ सूर्याचन्द्रमसौ यत्र करप्रसरवर्जितौ । ज्ञानाख्यं तव तत्रापि चक्षुः प्रतिहतं न हि ॥४७॥ अतः प्रसादतो नाथ भवतां भवभेदिनाम् । शुश्रूषति मनः किञ्चिज्जन्मान्तरगतं मम ॥४८॥ कर्मणा केन योगीन्द्र ! प्राप्तं सौख्यं परं ततः। परम्परामनर्थानां ततश्च सकलाः श्रियः ॥४९॥ संयोगश्च जगद्वन्ध कथमासां चतसृणाम् । अत्यन्तदूरजातानां नायिकानां ममाऽभवत् ॥ ५० ॥ निशम्येति वचस्तस्य प्रोवाच यतिसत्तमः । सावधानो महाभव्य वर्ण्यमानं मया शृणु ॥ ५१ ॥ सुखाभासाभिरामाणि दुःखान्यव हि भुञ्जताम् । कर्मजालनिबद्धानां यानि जन्मानि देहिनाम् ॥ ५२ ॥ अनादिकालतोऽनादिसंसारे परिवर्तनाम् । जानात्येव जिनस्तानि संख्यातुं न पुनः क्षमः ॥५३॥ अतोऽनन्तरमेवाहं भवं तव वदाम्यहो। यत्तत्रैव चिराद्भद्र भवतो हितसम्भवः ॥ ५४॥ १ श्रोतुमिच्छति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org