Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 82
________________ अष्टमः सर्गः: ७७ सुमित्रं जयमित्रं च वसुमित्रं नृपात्मजा । प्राप पुत्रान्तुरीयाञ्च पुत्रीं नाम्ना प्रभावतीम् ॥ २२ ।। कारितश्च समस्तानां जन्मनामपरीणयः। तथा महोत्सवस्तेन यथा लोकः सुविस्मितः ॥२३॥ एवं वर्द्धयतस्तस्य त्रिवर्गोद्दामपादपम् । कालः कोऽपि जगामाऽस्य मनस्य सुखसागरे ॥२४॥ अन्यदाऽसौ पुरस्कृत्य सर्व कुसुमादिकम् । विज्ञप्तो वनपालेन सभामध्यव्यवस्थितः ॥२५॥ शृङ्गारतिलकोद्याने प्रातरद्य समागतः । दधत्समाधिगुप्ताख्यां चतुर्तानी मुनीश्वरः ॥ २६ ॥ ऋतवस्तस्य भक्त्यैव योगपद्यादुपागताः । पुष्पाभरणमग्राहि दृष्ट्वैव च वनश्रिया ॥ २७ ॥ सरस्योऽप्यभवस्तत्र विकचाम्भोजलोचनाः । जडाशयोऽपि को नाम नोल्लासी मुनिदर्शनात् ॥ २८॥ मुअगुञ्जदलिबातो भ्राम्यस्तत्र विराजते। निर्गच्छन्निव तद्धीत्या पापपुओ रुदन वनात् ॥ २९ ॥ आश्रित्य सहकाराणां शाखाः प्रत्यग्रमअरीः । भव्याँस्तत्राह्वयन्तीव कोकिलाः कलनिस्वनाः ॥३०॥ तत्राऽवशिनोऽप्याशु फलपुष्पचिता विभो । वर्त्तते सर्वसामान्य तादृशानां हि चेष्टितम् ॥ ३१ ॥ मन्दगन्धवहोद्भता नृत्यन्ति कुसुमाञ्जलिम् । प्रक्षिप्येव लतास्तत्र तदानन्देऽङ्गनोचिताम् ॥ ३२॥ १ गृहीतम् । २ वन्न्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102