Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 81
________________ जिनदत्तचरित्रे इत्थमानन्दमुत्पाद्य तातादीनामुवाच सः। यथाक्षणं स्ववृत्तान्तमशेषं प्रश्नपूर्वकम् ॥ ११ ॥ यान्ति तत्र दिनान्यस्य सुरस्येव सुरालये। पञ्चेन्द्रियसुखं सम्यक् भुञानस्य निरन्तरम् ॥ १२ ॥ उद्यानदीर्घिकाशालशोभितानि पदे पदे । अकारयच्च चित्राणि मन्दिराणि जिनेशिनाम् ॥ १३ ॥ सारं श्रावकधर्मस्य विततार यथाविधि । चतुर्विधस्य सङ्घस्य दानमेष चतुर्विधम् ॥ १४ ॥ सप्रार्चनः प्रयातिस्म पर्वणां च चतुष्टये । इष्टं जनं समादाय वन्दितुं जिनपुङ्गवान् ॥ १५ ॥ पञ्चकल्याणभूभागान्मेरुं कुलशिलोच्चयान् । एति चानम्य, भक्त्यासौ चारणर्षियतीश्वरान् ॥ १६ ॥ तथातिशयसम्पन्नं दृष्ट्वा जनपदोऽप्यसौ। तं बभूव समस्तोऽपि जिनधर्मपरायणः ॥ १७ ॥ गजाश्वरथधेनूनामन्यासामपि सम्पदाम् । जाता संख्या गृहे नास्य वीचीनामिव सागरे ॥ १८ ॥ ऋतवोऽपि वसन्तायाः सकान्तस्य यथोचितम् । भुजानस्य प्रयान्त्यस्य सुखं शारीरमानसम् ॥ १९ ॥ सुदत्तजयदत्ताख्यौ विमलादिमतिः सुतौ । वसन्तलेखया सार्धं सुप्रभं श्रीमती तथा ॥२०॥ सुकेतुं जयकेतुं च केतुं गरुडपूर्वकम् ।। खगाधीशतनूजा च विजयादिमति सुताम् ॥ २१ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102