Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 85
________________ ८ . जिनदत्तचरित्रे अस्यत्त्र भरतक्षेत्रे देशोऽवन्तिः स्वशोभया। सस्पृहा मर्त्यलोकस्य कृता येन सुरा अपि ॥ ५५ ॥ पतन्ति यत्र शालीनां केदारेषु मधुव्रताः। मलिनोभयपक्षा हि के दारेषु परांमुखाः ॥ ५६ ॥ चक्राङ्किता विराजन्ते राजहंसनिषविताः । मार्गेषु यत्र पद्माढ्या चक्रिणो वा जलाशयाः ॥ ५७॥ सरसा सदलङ्कारा व्यक्तवर्णव्यवस्थितिः। प्रसादौजोयुता यत्र कथेव जनता कवेः ॥ ५८ ॥ तत्राऽस्त्युज्जयिनी नाम नगरी नरसत्तमः। यथेयं राजते हारलतयेव वराङ्गना ॥ ५९ ॥ प्राकारशिखरानद्धपद्मरागाशुभिर्निशि । पतितैः खातिकानीरे रथाङ्गा विरहव्यथाम् ॥ ६० ॥ यत्र सुक्तैव जायन्ते सङ्गमाभिमुखा मुदा । उदयं दिननाथस्य मन्यमाना इवाऽभितः ॥ ६१ ॥युग्मम् । यत्र प्रासादसंलग्ननीलाञ्शुशवलः शशी।। मुदे स्वच्छन्दनारीणां जायते निशि सर्वदा ॥२॥ समग्रवसुधासारसम्पदां जन्मभूमिका।। आवासाय कृता धात्रा या नृणां पुण्यशालिनाम् ॥ ६३॥ तत्र विक्रमधर्माख्यो भूपोऽभूद्धवनान्तरम् । जगाहे लीलया यस्य यशः पूर्णेन्दुसुन्दरम् ।। ६४॥ शोभायै केवलं यस्य चातुरङ्गमभूद्धलम् । प्रतापेनैव यत्सेवां कारिताः सकलारयः ॥६५॥ १ मलिना दारेषु पराङ्मुखा न भवन्ति । २ वा शब्द इवार्थे । Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102