Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 53
________________ ४८ जिनदत्तचरित्रे सर्वसङ्ग परित्यज्य संस्मृत्य गुरुपंचकम् । आराधनाविधानेन प्रान्ते प्राणोज्झनं मतम् ॥ १०९ ॥ दिग्देशनियमं दुष्टाऽनर्थदण्डोज्झनं कुरु । सामायिकं हताघौघं प्रोषधं दुःखनाशकम् ॥ ११० ॥ एतेषु गुणशिक्षाद्या नियमा द्वादशव्रतम् । पंचं त्रयश्च चत्वारो गृहस्थानां जिनोदिताः ॥ १११ ॥ गुरुणां वचनादेतत्त्वावादि मया प्रिये । पश्चात्ते दापयिष्यामि विशेषागुरुसन्निधौ ॥ ११२ ॥ इत्यादि सा कुमारेण जिनधर्म विशुद्धधीः । ग्राहिता साऽपि जग्राह तं तथेति त्रिधा तदा ॥ ११३ ॥ इत्थं तथा निखिल सौख्यनिधानधात्र्या धन्यः समं कुतुककोपकृतान्तरायम् । सौख्यं स निर्विशति यावदितः कृतार्थ - स्तावच्चचाल सकलो वणिजां समूहः ॥ ११४ ॥ ज्ञात्वाऽपि तेन भणितो नृपतिः सहेतु र्लोकः प्रयाति सकलोऽपि मम स्वदेशम् । मां प्रेषयेति वचनेन नृपः सदुःख स्तस्मै समय तनयां सपरिच्छदां ताम् ॥ ११५ ॥ त्रिंशदस्ति भुवि यस्य सुवर्णकोट्यो मूल्यं तदस्य किल कण्ठविभूषणं च । दत्वा नृपेण बहुधा वसनादिजात मालिङ्गय साश्रुनयनेन ततो विमुक्तः ॥ ११६॥ १ प्राणत्यागः । २ पञ्चप्रकारमणुव्रतं, त्रिधा गुणवतं, चतुर्धा शिक्षाव्रतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102