Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 68
________________ षष्ठः सर्गः। - संस्नातो मधुराम्भोभिर्दिव्यवस्त्रविभूषितः । समारोप्य विमानेऽसौ ताभ्यां नीतस्तदन्तिकम् ॥ २२॥ रूपातिशयमालोक्य तस्यासौ दूरतो नृपः। न ममौ हृदि हर्षेण रोमाञ्चाञ्चितविग्रहः ॥ २३ ॥ अचिन्तयच्च किं साक्षात्कन्दर्पोऽयमुपागतम् । नान्यथैवंविधा रूपकान्तिलावण्यसम्पदः ॥ २४ ॥ अथवा सन्ति संसारे सौभाग्यकुलमन्दिरम् । ते केऽपि पुरतो येषां मनोभूरपि लज्जते ॥२५॥ यथा चिन्तित एवायं वरो विद्याभ्दुत्तमः । लब्धः पुण्येन कन्यायाः कुत्राप्यप्राकृताकृतिः ॥ २६ ॥ अथान्येषुः शुभे लग्ने सुमुहूर्ते तिथौ शुभे। विवाहमङ्गलं राजा कन्यायास्तेन संदधे ॥ २७ ॥ विज्ञाप्य श्वशुरं तेन दत्तचित्रविभूतिकः । प्रतस्थे स्वपुरं साकं कान्तया कान्तया तया ॥२८॥ चश्चच्चारुध्वजनातं किङ्किणीक्वाणसुन्दरम् । प्रलम्बमौक्तिकोद्दामदामाढ्यं बहुभूमिकम् ॥ २९ ॥ वरं विमानमारूढः पुरोद्याननदीनगान् । प्रियाया दर्शयन्नेष यावद्याति विहायसा ॥३०॥ चम्पापुरीप्रवेशे हि जाता रात्रिस्ततः प्रिया । उक्ता तेन यथा तिष्ठ जाग्रती त्वं स्वपिम्यहम् ॥ ३१ ॥ समुत्थाय शयित्वाऽसौ तामवादीदिति प्रिये। . स्वपिहि त्वं गताशङ्का तिष्ठाम्येष पुरस्तव ॥ ३२॥ १ कामः । २ मनोहरया। ३ क्षुद्रघण्टिका । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102