Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 73
________________ ८ जिनदत्तचरित्रे निगद्येति गतः साऽपि सार्द्धं विमलया तया । सुचिरं चिन्तयामास किमेतदिति विस्मिता ॥ ७६ ॥ अन्यस्मिंश्च समागत्य वासरे खगपत्तने । आरभ्य स्वागमं प्रोक्तं त्यक्ता यावन्नभञ्चरी ॥ ७७ ॥ स्मितधौताननाऽवोचत्ततोऽसौ खगदेहजा । असमाप्य कथां मा गा ब्रूहि जातं ततः किमु ॥ ७८ ॥ प्रातरेत्य भणिष्यामि सअल्पयेति ततो गतः । सम्पन्नप्रियसङ्काशा विस्मितास्ता अपि स्थिताः ॥ ७९ ॥ नरेन्द्रोऽपि तदाकर्ण्य विस्मितः पारितोषिकम् । ददावस्मै जनः सर्वचित्रितश्च स्वचेष्टितैः ॥ ८० ॥ अथान्येरभूत्तत्र महान्कोलाहलस्ततः । पृष्टः कोऽपि नरेन्द्रेण किमेतदिति सोऽब्रवीत् ॥ ८१ ॥ यथा राजगजो देव नाना मलयसुन्दरः । आलानस्तम्भमुन्मूल्य निःशङ्कं विचरत्ययम् ॥ ८२ ॥ यः कोऽपि वशमायाति पशुरस्य नरश्च वा विलम्बेन विना नाथ स याति यममन्दिरम् ॥ ८३ ॥ प्राकारोद्यानसद्वेश्मदेवतायतनान्ययम् । भस्मीकरोति भूपालाऽगणयन् भटपेटकम् ॥ ८४ ॥ तन्निशम्य महासत्वाः प्रेषिता वीरपुङ्गवाः । राज्ञा तेsपि न संशेकुर्दमने तस्य दन्तिनः ॥ ८५ ॥ एवं दिनत्रयं तत्र पीडयन्नखिलाः प्रजाः । बम्भ्रमीति करी यावत्पटहस्तावदाहतः ॥ ८६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102