Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 75
________________ जिनदत्तचरित्र MAvh सप्तमः सर्गः। अथामात्यैः समं राज्ञा तदति प्रविचारितम् । कुलं यस्य न जानीमो दीयतां देहजा कथम् ॥१॥ तैरवाचि किमेतेन विकल्पेन महीपते। ब्रवीत्याकृतिरेवास्य कुलं कल्याणखूचकम् ॥ २॥ विनोदेनाऽमुना कोऽपि क्रीडत्येष महामनाः। पयोदपटलेनेव प्रच्छन्नो दिवसाधिपः ॥ ३॥ शौर्यसत्वयशोरूपविज्ञान किनामपि । चमत्कारं करोत्येषोऽचिन्त्यमस्य विचेष्टितम् ॥ ४ ॥ विशुद्धोभयपक्षाय कन्यास्मै दीयतां ततः । किञ्चाऽसाध्येष्वयं देव प्रतिच्छन्दस्तवापरः ॥ ५॥ प्रतीतिरस्ति चेन्नाऽथ पृच्छयतामयमेव हि । वचः श्रुत्वेति राज्ञाऽसौ पृष्ठ एवं समन्त्रिणा ॥ ६॥ विज्ञानाकृतिसत्त्वाढचैगुणै तो वरो मया। प्रच्छन्नः कोऽपि भद्र त्वं नूनं नरशिरोमणिः ॥ ७॥ प्रसीद वद सन्देहं हर स्वं प्रकटीकुरु । तथाप्यात्मानमित्येवमुक्तः स्मित्वा जजल्प सः॥८॥ वसन्तादिपुरावासिजीवदेववणिकपतेः । जिनदत्त इति ख्यातः सूनुरस्मि नरेश्वर ॥९॥ त्वदीयश्रेष्ठिनः पुत्री विमलस्यैका परा प्रभो। . सिंहलेशस्य विद्याभूश्चक्रिणो दुहिताऽपरा ॥१०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102