________________
जिनदत्तचरित्र
MAvh
सप्तमः सर्गः।
अथामात्यैः समं राज्ञा तदति प्रविचारितम् । कुलं यस्य न जानीमो दीयतां देहजा कथम् ॥१॥ तैरवाचि किमेतेन विकल्पेन महीपते। ब्रवीत्याकृतिरेवास्य कुलं कल्याणखूचकम् ॥ २॥ विनोदेनाऽमुना कोऽपि क्रीडत्येष महामनाः। पयोदपटलेनेव प्रच्छन्नो दिवसाधिपः ॥ ३॥ शौर्यसत्वयशोरूपविज्ञान किनामपि । चमत्कारं करोत्येषोऽचिन्त्यमस्य विचेष्टितम् ॥ ४ ॥ विशुद्धोभयपक्षाय कन्यास्मै दीयतां ततः । किञ्चाऽसाध्येष्वयं देव प्रतिच्छन्दस्तवापरः ॥ ५॥ प्रतीतिरस्ति चेन्नाऽथ पृच्छयतामयमेव हि । वचः श्रुत्वेति राज्ञाऽसौ पृष्ठ एवं समन्त्रिणा ॥ ६॥ विज्ञानाकृतिसत्त्वाढचैगुणै तो वरो मया। प्रच्छन्नः कोऽपि भद्र त्वं नूनं नरशिरोमणिः ॥ ७॥ प्रसीद वद सन्देहं हर स्वं प्रकटीकुरु । तथाप्यात्मानमित्येवमुक्तः स्मित्वा जजल्प सः॥८॥ वसन्तादिपुरावासिजीवदेववणिकपतेः । जिनदत्त इति ख्यातः सूनुरस्मि नरेश्वर ॥९॥ त्वदीयश्रेष्ठिनः पुत्री विमलस्यैका परा प्रभो। . सिंहलेशस्य विद्याभूश्चक्रिणो दुहिताऽपरा ॥१०॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org