________________
सप्तमः सर्गः ।
एतास्तिस्रोऽपि मद्भार्यास्तिष्ठन्ति जिनवेश्मनि । मदीयसङ्गमोत्कण्ठाकुलिताः कुलकेतवः ॥ ११ ॥ विपदा सम्पदां देव भाजनीभवता मया। अधुना प्राप्तविद्येन क्रीडेति बहुधा कृता ॥ १२ ॥ तदाकूतं ततो ज्ञात्वाऽऽ हूतास्ताः पृथिवीभुजा। तिस्रोऽपि नायिकास्ताश्च प्राप्ताः कञ्चुकिभिः समम् ॥१३॥ अत्रोपविश्यतां पुत्र्यः स्वामिना भणिता इति । प्रणम्योपाविशन्नन्ते विनीतास्ता यथाक्रमम् ॥ १४॥ उक्तं ततो नरेन्द्रेण महासत्यो वदत्ययम् । एतास्तिस्रोऽपि मद्भार्याः सत्यमेवं मृषा किमु ॥ १५ ॥ अन्योन्यं मुखमालोक्य ताभिरूचे पतिः प्रभो। न भवत्येव जानाति वार्ता तस्यैव केवलम् ॥ १६ ॥ अत्रान्तरे कुमारोऽपि पुलकाश्चितविग्रहः । आविर्भवस्मितं वक्त्रं पिदधातिस्म वाससा ॥ १७ ॥ भूयोप्युवाच भूपालः पुत्र्यः सम्यक प्रविच्यताम् । ताभिरूचे न सादृश्यमपि तस्याऽस्ति किं बहु ॥ १८ ॥ कुमारेण ततस्त्यक्त्वा वामनत्वं कृताऽऽकृतिः। जिनदत्तस्य सजातः श्यामवर्णेन केवलम् ॥ १९॥ विस्मिताभिस्ततस्ताभिः सलज्जाभिश्च भूपतिः । प्रोचे तात स एवायं परं वर्णेन नो समः ॥ २० ॥ ततः स्मित्वाऽभवत्सोऽपि तप्तजाम्बूनदच्छविः । तथा यथाऽभवश्चित्रलिखिता इव तास्तदा ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org