________________
७२
जिनदत्तचरित्रे
उदश्चदुच्चरोमाञ्चस्फुटत्कञ्चुकजालिकाः। समुत्थाय ततो लग्नाः स्वामिपादद्वये मुदा ॥ २२ ॥ यः पुरा ववृधे तीव्रस्तासां विरहपावकः । आनन्दाश्रुप्रवाहेण तेनाऽसौ शमितो ध्रुवम् ॥ २३ ॥ यदभावि तदा तासां सौख्यं किमपि मानसे। तत्र तस्याऽपि तत्सर्व कविवाचामगोचरम् ॥ २४ ॥ सम्भाविताश्च तास्तेन सलज्जा निकटे स्थिताः । भूषणाम्बरताम्बूलपुष्पै राज्ञा प्रपूजिताः ॥२५॥ ज्ञातवार्त्तः स तत्रैत्य विमलो वणिजां पतिः। नत्वेशं गाढमालिङ्गय जिनदत्तमुपाविशत् ॥ २६ ॥ क्षेमादिकं परीपृच्छय सम्प्राप्तावसरो नृपम् । उवाचेति यथा देव कुमारः प्रेष्यतां गृहम् ॥ २७ ॥ राज्ञाऽवादीदमेवास्य गेहं गुणमहोदधेः। यद्यप्येवं तथाऽपीश गाढमुत्कण्ठिता वयम् ॥ २८ ॥ संभाषादौ कुमारस्य किञ्चौचित्यक्रमोऽस्ति नः । इति तस्योपरोधेन विसृष्टोऽसौ महीभुजा ॥ २९ ॥ सकान्तं सोऽपि तं नीत्वा मन्दिरे मुदितो भृशम् । सादरं विदधे तस्य तत्रौचित्यं यथाविधि ॥ ३०॥ प्रारेभे च ततः कर्तुमुत्सवः स तथा जनः । पौरः सर्वोऽपि चायातस्तद्दर्शनसमुत्सुकः ॥ ३१ ॥ यथाकालं ततश्चक्रे सुखसम्भाषणादिकम् । श्रेष्ठिना सोऽपि वृत्तं स्वमवादीदादितस्ततः ॥ ३२॥
१विरहाग्निः :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org