SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः । ७३ नितम्बिन्योऽपि तास्तस्य साभिज्ञानं सुविस्मिताः। अश्रौषुवृत्तमात्मीयं न्यगदंश्च यथाक्रमम् ॥ ३३ ॥ विदधे च जिनाधीशायतनेषु समुत्सवम् । जिनार्चास्नानपूजाद्यं दीनादीनां विहांयितम् ॥ ३४ ॥ अथाऽन्येयुः शुभे लग्ने सुमुहूर्ते शुभे तिथौ। विवाहमङ्गलं राज्ञा कन्यायास्तेन कारितम् ॥ ३५ ॥ राज्यालङ्कारपूर्व च दत्त्वा देशाकि बहु । महासामन्तमेतं स चकार नरनायकः ॥ ३६॥ प्रेषिताश्च कुमारेण पुरुषास्तातसन्निधौ । समर्प्य बहुभेदानि द्वीपरत्नानि वेगतः ॥ ३७॥ उपलभ्य च ताताद्यास्तदुदन्तं न मानसे । उल्लासेन ममुश्चन्द्रविम्बादिक पयोधयः ॥ ३८ ॥ प्रेषिताश्च ततो लातुं तस्य तातेन चाऽऽगताः। तेजपि प्रणम्य तां वाचमूचुरेवं कृतादराः ॥ ३९ ॥ यथा विधीयतां नाथ विलम्बेन विनोद्यमः। गमनाय किमत्रैवं स्थीयते स्वजनादृते ॥ ४० ॥ तातस्तवाभिनवचन्द्रसमानमूर्ति र्जातो वियोगभरतो भवतोऽतिदुःखात् । मातुश्च बाष्पजलविप्लुतकज्जलाङ्का गण्डस्थली मलिनतां विजहौ न जातु ॥४१॥ , शण्वन्ति स्म । २. दानम् । ३ इति " क " पुस्तके पाठो नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy