Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
षष्ठः सर्गः ।
यथा हस्तिनमतं यः कुरुते वशवर्तिनम् । कन्या प्रदीयते तस्मै सामन्तश्च विधीयते ॥ ८७ ॥ श्रुत्वेति वेगतः स्पृष्ट्वा पटहं वामनस्ततः । आजुहाव गजाधीशं सोऽप्यगादुरकरः पुरः ॥ ८८॥ पृष्ठतः पार्श्वतो धावन्नग्रतो जठराधः।। ताडयन्निविडं लोष्ठमुद्गरैश्चतुरः क्वचित् ॥ ८९ ॥ स्वशिक्षालाघवं सम्यग्दर्शयन् वलनादिभिः । आरूढः श्रममानीय तं दत्तकरणस्ततः ॥ ९० ॥ साधुवादं समासाद्य जनेभ्यो नृपपुङ्गवम् । प्रणम्यालानमानीय करिणं स सुखं स्थितः ॥ ९१ ॥
इतिश्रीभगवद्गुणभद्राचार्यप्रणीते श्रीजिनदत्तचरित्रे
षष्ठः सर्गः ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102