Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 65
________________ जिनदत्तचरित्रे अथवा प्राकृतासातप्रबन्धवशवर्तिनः। एवं हन्त प्रजायन्ते जन्तवो दुःखभाजनम् ॥ ११२ ॥ उवाच च सुते शोक विमुच्य सकलं सुखम् । तिष्ठात्र धर्मतन्निष्ठा भगिन्या सहिताऽनया ॥११३ ॥ नूनं य एव नाथस्ते पतिरस्याः स एव हि । केनापि हेतुना चैते सफला वां मनोरथाः ॥११४॥ युवयोस्तस्य चात्राऽपि सांकृतिः शुभदर्शने । यया भवन्ति निःशेषकल्याणानि निरन्तरम् ॥ ११५ ॥ अतो यावत्कुतोप्येति तस्योदन्तो दयावति । तावत्प्रतीक्ष्यतां भद्रे सदनेऽत्रैव सौख्यतः ॥ ११६ ॥ इत्थमाश्वास्य ते श्रेष्ठी जगाम निजमन्दिरम् । प्रति परस्परं तत्र तिष्ठतस्ते यथासुखम् ॥ ११७ ॥ जिनेन्द्रपूजायतिदानजैन श्रुताध्ययाभ्यासविमानसक्ते। जितेन्द्रिये ते जनता विलोक्य । चकार धर्मे बहुधा प्रयत्नम् ॥ ११८॥ मुक्तावलीप्रभृतिचित्रविधिप्रसक्ते सम्यक्त्वमौक्तिकशुभाभरणाभिरामे । तत्र स्थिते भुवमुपागतकीर्तिलक्ष्भ्यो यद्वत्प्रसन्नवदने मदनार्तिमुक्ते ॥ ११९ ॥ ॥ इतिश्री भगवद्गणभद्राचार्यप्रणीते श्री जिनदत्तचरित्रे पञ्चमः सर्गः॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102