Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 51
________________ जिनदत्तचरित्रे धर्मस्तद्वदनाम्भोजनिर्गतः सुगतिप्रदः । यस्य मूलं समस्तार्थसाधिका करुणा मता ॥ ८८ ॥ कृतं किमपि पूर्णेन्दुवदने दयया समम् । विद्धं रसेन वा तानं सर्वकल्याणकारकम् ॥ ८९ ॥ उद्देशाद्देवतादीनां कृतोऽपि प्राणिनां बधः ।। नरकाय गुडोन्मिश्रं विषं मारयते न किम् ॥ ९० ॥ जायते येन येनेह हेतुनाऽसुमतां हतिः । तत्तद्वर्जय बाले त्वं येन स्यान्निस्तुषो वृषः ॥ ९१ ॥ अत्र चामुत्र सौख्यानि भुंजते यानि देहिनः । कृपाकल्पलता तानि सूते सर्वाणि सेविता ॥ ९२ ।। वितस्त्या मीयते जातु नभो भूरंगुलैरियम् । शक्याः सुमुखि संख्यातुं न गुणाः करुणाश्रयाः ॥ ९३ ॥ करभोरु परित्यज्य प्राणित्राणं न विद्यते । धर्मः शर्मकरः प्रोक्तो न च सोऽन्यैर्जिनेन्द्रतः ॥ ९४ ॥ नानाऽनुष्ठानयुक्तापि नादया शस्यते क्रिया। कामिनीव धृताशेषभूषणा कुलटा किल ॥ ९५॥ भवभोगशरीराणामसारत्वं विबुद्धय ये। सन्त्यज्य तृणवल्लक्ष्मी नैर्ग्रन्थ्यव्रतमाश्रिताः ॥ ९६ ।। प्राणात्ययेऽपि नो येषां जीवहिंसा वचोऽनृतम् । चुरा रामॉरिरंसा वा जिघृक्षा हृदि जायते ॥ ९७ ॥ १ प्राणिनां । २ श्रेष्ठः । ३ वितस्तिप्रमाणेन। '४ ज्ञात्वा । ५ जिनदीक्षां । ६ नोर्यम् । ७ स्त्रीरमणेच्छ। । ८ ग्रहीतुमिच्छा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102