Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 50
________________ चतुर्थः सर्गः। तथा प्रत्युपकारोऽयमेतेनाऽस्य भविष्यति । कन्यारत्नमिदं चैतत्सम्बन्धेनैव बन्धुरम् ॥ ७६ ॥ विधिरेवाथवा विश्ववैचित्र्यं विस्मयावहम् । विदधाति नरस्तत्र केवलं याति साक्षिताम् ॥ ७७ ॥ इत्यादि बहु सम्भाव्य कुमाराय कृशोदरी। वितीर्णा भूभुजा तस्मै सोऽप्यमंस्तोपरोधतः ॥ ७८॥ विधाय विधिना तस्याः कुमारः पाणिपीडनम् । पंचेन्द्रियसुखं तस्थौ भुनानः सहितस्तया ॥ ७९ ॥ छायेव साऽपि तस्याभूदविभिन्ना मनस्विनः। चके तेनाऽपि विज्ञातजैनधर्मक्रमादिति ॥ ८० ॥ मिथ्यात्वं त्यज तन्वंगि संसारार्णवपातकम् । भज भव्यजनार्भाष्टं सम्यक्त्वं मुक्तिहेतुकम् ॥ ८१ ॥ अदेवे देवतावृद्धिरगुरौ गुरुसम्मतिः। अतत्त्वे तत्त्वसंस्था च तथाऽवादि जिनेश्वरैः ॥ ८२ ॥ सुभ्र विभ्रान्तचेतस्का देहिनो देवतादिषु । वासयन्ति हि सप्तापि नरकाणि निरन्तरम् ॥ ८३॥ लोकद्वयेऽपि यानीह सन्ति दुःखानि सुन्दरि । जायते भाजनं जन्तुस्तेषां मिथ्यात्वमोहितः । ८४ ॥ निःशेषदोषनिर्मुक्तो मुक्तिकान्तास्वयम्वरः । लोकालोकोल्लसज्ज्ञानो देवोऽस्तीह जिनश्वरः ॥८५॥ अन्ये ततो विशालाक्षि रागद्वेषादिकल्मषैः । दूषिता न भवन्त्याप्ताः कृतकृत्या विरागिणः ॥ ८६ ॥ अतस्त्रिधा प्रतीहि त्वं देवानामधिदैवतम् । चराचरजगज्जन्तुकारुण्यं स्वामिनं जिनम् ॥ ८७ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102