Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 56
________________ पञ्चमः सर्गः । ममेयं जगदानन्ददायिनी वशवर्तिनी। केनोपायेन जायेत जीवितव्यफलं लघु ॥ ११ ॥ अथवा विद्यते यावत्कुमारो वीरसत्तमः । तावदस्याः सुखालोकं न कृतं मुखपङ्कजम् ॥ १२ ॥ निक्षिप्यतं दुरालोकं क्रूरनकाकुले जले । निश्चितं मानयिष्यामि संसारसुखमेतया ॥१३॥ चिन्तयित्वेति तेनोक्ताः कुमारादपरे जनाः । कार्य किमपि भाण्डादौ युष्माभिः पतिते न हि ॥१४॥ विभिद्येति समस्तॉस्तान क्षिप्तं किमपि वारिणि । उदासीनेषु सर्वेषु कुमारोऽवततार सः ॥ १५ ॥ ततश्छिन्ना वस्त्रा तैवेंगतो गतवानसौ। यथाऽगाधजले पोतो वाहितश्च क्षणात्ततः ॥ १६ ॥ कुमारपातसातशोकशङ्कहता हृदि । अजस्राश्रुप्रवाहेण प्लावितस्तनमण्डला ॥ १७ ॥ सा किंकर्त्तव्यतामूढा यावत्तिष्ठति सुन्दरी। तावदभ्येत्य साऽवादि सार्थवाहेन दुःखिता ॥ १८ ॥ शशाङ्कमुखि ! मा कार्षीः शोकं सन्तापकारणम् । सर्वाः सर्वप्रकारेण तवाऽऽशाः पूरयाम्यहम् ॥ १९॥ मयि तिष्ठति तन्वङ्गि त्वदादेशविधायिनि । आयत्ते व समस्तार्थे किं वृथैव विषीद॑सि ॥२०॥ अम्बराणि विचित्राणि भूषणानि यथारुचि । गृहाण मद्गहे सर्व स्वामित्वं च शुभे कुरु ॥ २१ ॥ १ मध्यबन्धनोपयोगिनी रज्जुः । २ कीलक । ३ इच्छाः । ४ क्लाम्यसि । Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102