________________
पञ्चमः सर्गः ।
ममेयं जगदानन्ददायिनी वशवर्तिनी। केनोपायेन जायेत जीवितव्यफलं लघु ॥ ११ ॥ अथवा विद्यते यावत्कुमारो वीरसत्तमः । तावदस्याः सुखालोकं न कृतं मुखपङ्कजम् ॥ १२ ॥ निक्षिप्यतं दुरालोकं क्रूरनकाकुले जले । निश्चितं मानयिष्यामि संसारसुखमेतया ॥१३॥ चिन्तयित्वेति तेनोक्ताः कुमारादपरे जनाः । कार्य किमपि भाण्डादौ युष्माभिः पतिते न हि ॥१४॥ विभिद्येति समस्तॉस्तान क्षिप्तं किमपि वारिणि । उदासीनेषु सर्वेषु कुमारोऽवततार सः ॥ १५ ॥ ततश्छिन्ना वस्त्रा तैवेंगतो गतवानसौ। यथाऽगाधजले पोतो वाहितश्च क्षणात्ततः ॥ १६ ॥ कुमारपातसातशोकशङ्कहता हृदि । अजस्राश्रुप्रवाहेण प्लावितस्तनमण्डला ॥ १७ ॥ सा किंकर्त्तव्यतामूढा यावत्तिष्ठति सुन्दरी। तावदभ्येत्य साऽवादि सार्थवाहेन दुःखिता ॥ १८ ॥ शशाङ्कमुखि ! मा कार्षीः शोकं सन्तापकारणम् । सर्वाः सर्वप्रकारेण तवाऽऽशाः पूरयाम्यहम् ॥ १९॥ मयि तिष्ठति तन्वङ्गि त्वदादेशविधायिनि । आयत्ते व समस्तार्थे किं वृथैव विषीद॑सि ॥२०॥ अम्बराणि विचित्राणि भूषणानि यथारुचि । गृहाण मद्गहे सर्व स्वामित्वं च शुभे कुरु ॥ २१ ॥ १ मध्यबन्धनोपयोगिनी रज्जुः । २ कीलक । ३ इच्छाः । ४ क्लाम्यसि ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org