________________
जिनदत्तचरित्रे।
भुइक्ष्व भोगान्मया सोकं बाले ! वाञ्छातिरेकतः । सम्पन्नसर्वसामग्रयं सफलीकुरु यौवनम् ॥ २२॥ अत एव मया मुग्धे ! जिनदत्तः प्रपञ्चतः । पयोनिधौ परिक्षिप्तस्त्वत्सङ्गाहितचेतसा ॥२३॥ अतः कान्ते गताशङ्का सविलासं समं मया। रतसौख्यं भजाजन्म सर्वबाधाविवर्जितम् ॥ २४ ॥ तन्निशम्य नराधीशसुतया विधुतं शिरः। चिन्तितं च क्षतेऽनेन कीर्णः क्षारोऽतिदुःसहः ॥ २५ कृत्याकृत्यमविज्ञाय कामान्धेन कथं वृथा। नीलोत्पलदलैः कष्टं कुंकूलं किल कल्पितम् ॥ २६ ॥ जिनदत्तनिशानाथं कुर्वतो मे तिरोहितम् । केन वाऽहो पिशाचस्य मुखमेतस्य दृश्यते ॥ २७ ॥. अथवा सर्वपापानामहमेव निबन्धनम् । मद्रूपासक्तचित्तेन यदनेन स नाशितः ॥ २८॥ खण्डयित्वा द्विजौर्जिह्वां दत्वोत्फालं जलेऽथवा । असिऍत्रिकया हत्वा किमात्मानमहं म्रिये ॥ २९ ॥ अथ वा धिगिमं तेन धर्मक्षेन निवारिता। आत्मघातं विलम्बे वा मा कदाचित्तदागमः॥ ३०॥ शीलं पालयतां सम्यक स्थिराणामिह वाञ्छितम् । भूयोऽपि सम्भवत्येव सीतादीनामिव ध्रुवम् ॥ ३१॥ विदधामि तदेतस्य कामार्तस्याशु वञ्चनम् । ___ भावि भद्रं प्रियप्राप्तावन्यथा स्यात्तपोवने ॥ ३२ ॥ १ सह । २ कम्पितं । ३ पृथ्वीतटम् । ४ अत्र वाशब्दो इवार्थे । ५ खन्न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org