________________
पञ्चमः सर्गः।
सम्भाव्येति तयाऽभाणि सूक्तमेतत्तवोदितम् । वज्रशृङ्खलतुल्यन्तु वाचा बन्धनमस्ति ते ॥ ३३॥ 'श्वशुरोऽयं तवेत्युक्तं त्वत्पुत्रेण पुरो मम । अतोऽस्ति ताततुल्याय रन्तुं मे जायते घृणा ॥ ३४॥ प्रतिपन्नं न मुञ्चन्ति प्राणत्यागेऽपि सन्नराः। यथा सागर एवाऽयं मर्यादां विजहाति किम् ॥ ३५ ॥ स्वकुले विमले सम्यक हेयाहेयौ विजानता । सम्पर्केण परस्त्रीणां कलङ्कः क्रियते कथम् ॥ ३६ ॥ अकर्तव्ये कथं चित्तमीदृशे भजतां मम । उत्साहं तादृशे जन्म स्मरन्त्याः स्वकुलेऽधुना ॥ ३७॥ सार्थवाहस्तदाकर्ण्य तामुवाच मनस्विनि । जानाम्येवं तथाप्युच्चैर्मामभिद्रवति स्मरः ॥ ३८ ॥ मामयं मोहयामास तथा कामो यथा शुभे। लजायशोविवेकाद्याः स्पृश्यन्ते मनसा न मे ॥ ३९ ॥ कन्दर्पसर्पदष्टस्य मूर्च्छतो मे मुहुर्मुहुः । समस्तोपायमुक्तस्य दीयतां सुरतामृतम् ॥ ४० ॥ एकान्तेन न चाकार्यमेतत्तव तनूदरि। श्रूयते हि पुराणेषु श्रुतौ चैव सहस्रशः ॥ ४१ ॥ द्रौपदी मुदिता भ्रातृपञ्चकं जगदुत्तमम् । तातादिविदिता चक्रे कृतार्थ कामकेलिभिः॥४२॥ समस्तस्मृतिशास्त्रज्ञो नरामरनमस्कृतः ।
भारद्वाजतपा जातो नैव किं भ्रातृजायया ॥४३॥ १ गौतमर्षिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org