________________
५४
१
जिनदत्तचरित्रे
स्त्रियं वा पुरुषं वापि स्वयमेव समागतम् । भजते यो न तस्यास्ति ब्रह्महत्या निसंशयम् ॥ ४४ ॥ तयाऽवाचि महाबुद्धे वक्तुमेवं न युज्यते । शस्यते न हि केनाऽपि स्नुषाश्वशुरसङ्गमः ॥ ४५ ॥ द्रौपद्याद्या महासत्यः पवित्रीकृतभूतलाः । विषयान्धेन केनापि तद्वृत्तं कृतमन्यथा ॥ ४६ ॥ भारद्वाजादिदृष्टान्तः प्रमाणं न हि जायते । भवादृशा दुराचाराः पुराप्यासन्न किं नराः ॥ ४७ ॥ स्वयमेवागतेत्यादि युक्तं यदि सुभाषितम् । पारदारिकलोकस्य शिरच्छेदादिकं कृतम् ॥ ४८ ॥ पीडितोऽपि न चाकृत्यं कुरुते जातु सात्त्विकः । यत्किचिदेव किं सिंहः क्षुधाक्षीणोऽपि खादति ॥ ४९ ॥ भिन्दति हृदयं यस्य कटाक्षैरभिसारिकाः । तमीययेव मुञ्चन्ति लोकद्वितयसम्पदः ॥ ५० ॥
अन्यस्त्रीभ्रूधनुर्मुक्तकटाक्षशरपङ्गिभिः ।
न शीलकवचं भिन्नं येषां तेभ्यो नमो नमः ॥ ५१ ॥ मालिन्यं स्वकुले येन जायते दूष्यते यशः । तत्कृत्यं क्रियते केन स्वस्य सौख्यसमीया ॥ ५२ ॥
कलत्रसंग्रहः पुंसां सतां सन्तानवृद्धये । तत्रैवान्ये समासज्य नरके निपतन्ति हि ॥ ५३ ॥ सन्तोऽन्यवनितां वीक्ष्य प्रयान्त्यानतमस्तकाः । वृषभास्तोयदोन्मुक्तनीरधाराहता इव ॥ ५४ ॥
16
स्नुषा पुत्रवधूः
Jain Education International
"
1
For Private & Personal Use Only
www.jainelibrary.org