SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । अकामिता सकामेऽपि कलत्रेऽन्यस्य यन्नृणाम् । महाव्रतमिदं नाम न परख्यादिधारणम् ॥ ५५ ॥ रामामम्बामिवान्यस्य कंचारमिव काञ्चनम् । पश्यन्ति ये जगत्तेषामशेष गाहते यशः ॥ ५६ ॥ पातालबद्धमूलोऽपि मेरुः स्खलति कहिंचित् । प्राणात्ययेऽपि दुर्वृत्ते सतीनां न पुनर्मनः ॥ ५७ ॥ नान्यं जातु निषेवऽहं परित्यज्य निजं पतिम् । चन्द्रमन्तरिते सूर्ये पश्यत्यपि न पद्मिनी ॥ ५८ ॥ शेषशीर्षमणिर्मन्ये सिंहानां केसरच्छदा। केनाऽपि स्पृश्यते क्वापि सतीनां न पुनस्तनुः ॥ ५९॥ अतः शुद्धं मनः सम्यक स्वं विधेहि महामते । बोधयन्तीति सा तेन श्रेष्ठिना भणिता पुनः ॥६० ॥ पाषाणहृदया जाने सत्यं त्वं बालपण्डिता । निर्दाक्षिण्यतयाऽस्माकं सन्तापायैव निर्मिता ॥ ६१ ॥ बहिरुल्लासिलावण्यं प्रसन्नाननचन्द्रमाः । अन्तर्दुष्टाऽसि दुर्बुद्धे विषवल्लीव किं वृथा ॥ ६२॥ त्वं विधेहि यथाऽभीष्टं सगरोऽयं पुनर्मम । त्वन्मुखालोकनादन्यत्करिष्यामि न किञ्चन ॥ ६३॥ परमेवंविधप्रेमासक्तः सर्वजनप्रियः । भक्तश्च द्विजदेवानां प्राणान्प्रोज्झामि ते पुरः॥ ६४॥ निर्बन्धं तस्य तं ज्ञात्वा समुवाच नृपात्मजा। यद्याग्रहस्तवेत्युच्चैः शृणु त्वं तन्मदीरितम् ॥ ६५ ॥ १ लोष्ठम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy