SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जिनदत्तचरित्रे तावत्प्रतीक्षतां मासषटुं कान्तस्य कारये । नाम्ना तस्यैव कृत्यानि यावत्पश्चात्त्वदीहितम् ॥ ६६ ॥ यतोऽधुना परित्यज्य भवन्तं गतभर्तृका । विना वाच्यतया शक्ता नेतुं जन्म किमेकका ॥ ६७ ॥ युक्तायुक्तविचारज्ञो भवानेव हि भूतले। अतस्त्वद्वचनादेवं कर्त्तव्यं मम का क्षतिः ॥ ६८॥ एवं श्रुत्वाऽवदत् सोऽपि दीर्घ निःश्वस्य सुन्दरि । एवमस्तु परं भूयान्विक्षेपः कालगोचरः॥६९॥ त्वदीयाननशीतांशुत्वद्वाचामृतनिर्झरैः । मन्दमन्मथसन्तापस्तथापि स्थितिमादधे ॥ ७० ॥ एवं कृते ततः प्राप्त वासरैर्गणितैस्तटम् । यानपात्रं परिज्ञाय तया प्रोक्ता जना निजाः ॥ ७१ ॥ उदक्यास्म्यहमद्यैव तीरदुमतले ततः । स्थास्यामीति च वक्तव्यं श्रेष्ठिनो यदि पृच्छति ॥ ७२ ॥ अथ ते सोत्सवाः सर्वे समुत्तीर्णा जनास्ततः। आदाय प्राभूतं श्रेष्ठी जगाम च नृपान्तिकम् ॥७३॥ तस्यास्तु रक्षका दत्ताः श्रेष्ठिना यानलीलया । व्याकुलास्तेऽभवन्सापि स्वं जग्राहाखिलं जनम् ॥ ७४॥ समाहूतपरीवारा स्नानव्याजेन सा ततः । विनिर्गता लघु प्राप सार्थ चम्पापुरागतम् ॥ ७५ ॥ उक्तवृत्ता प्रधानेन तत्राग्राहि सुता मम । भणित्वा भवतीत्येवं निःशङ्का गच्छ पुत्रिके ॥ ७६ ॥ प्राप्ता च क्रमतश्चम्पोद्यानमानन्ददायकम् । तत्राऽदर्शि तया जैनं सद्म पद्मानिकेतनम् ॥ ७७॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy