SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । प्रविशन्ती च तत्रासौ निषद्याशब्दपूर्वकम् । दृष्टा विमलमत्या च दासीसेवकसंयुता ॥ ७८ ॥ ततः कृतजिनाधीशसंस्तवा वन्दितार्यिका । आसनादिविधिं कृत्वा विश्रान्ताऽवादि सादरम् ॥ ७९ ॥ कुतः साध्वि समायाता सुन्दराकारधारिणि । क्षेमं च ते समस्तानां तातादीनां तथा शुभे ॥ ८०॥ विस्मिताभिस्ततस्ताभिर्बहुधा प्रतिबोधिता । अवादीत्सखि विस्तीर्णा कथा मे दुःखदायिनी ॥ ८१ ॥ देहिनां स्नेहबद्धानां सन्तापोऽस्ति पदे पदे । पश्य स्नेहोज्झितं तन्वि कुंकुमं न हि तापयेत् ॥ ८२ ॥ वज्रशृंखलवद्धानां मुक्तिरस्ति कथञ्चन । स्नेहपाशपरीतानां बन्धनञ्च भवे भवे ॥ ८३॥ कथितानीह कर्माणि भवभ्रमणकारणम् । तेषां हेतुतया ख्यातो बन्ध एव शरीरिणाम् ॥ ८४ ॥ तस्यापि हेतवः सन्ति विषया विश्वमोहिनः। विमुक्तास्तैः परं सौख्यं भुञ्जते भोगनिस्पृहाः ॥ ८५ ॥ अस्मादृशासु मुह्यन्ति केवलं विषयाशया। यथा मधुरया पूर्व मधुदिग्धासिधारया ॥ ८६ ॥ वदन्तीमिति तां दुःखभारभंगुरमानसाम्। एवमाश्वासयामास विमलादिमतिस्तदा ॥ ८७ ॥ यथा यैरर्जितं पूर्व दुःखं वा यदि वा सुखम् । निरोढुं प्रसरस्तस्य शरपि न शक्यते ॥ ८८ ॥ पूर्वकर्मानुसारेण स्नेहद्वेषौ च सुन्दरि।। जायेते तौ च वर्द्धते चिन्त्यमानौ दिवानिशम् ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy