________________
५८
जिनदत्तचरित्रे
क्षणात्सुखं क्षणाहुःखं क्षणादासः क्षणात्पतिः । अनिष्टाभीष्टयोः सङ्गवियोगौ च क्षणादपि ॥ ९०॥ रूपलावण्यसौभाग्यभङ्गने यत्र मुहूर्ततः । तत्रास्ति सखि किं क्वापि संसारे सुखसम्भवः ॥ ९१ ॥ भावा हर्षविषादाद्या निमेषमपि चक्षुषः। विजित्य यत्र वर्त्तन्ते कुतस्तत्र भवेद्रतिः ॥ ९२ ॥ इदं हीनतमं चात्र जन्म स्त्रीणां सुलोचने। तातादयोऽप्यहो यत्र परेभ्यः पालयन्ति ताः ॥ ९३॥ अवाप्य च महानर्थकारि किं नवयौवनम् । मोहिता रतिसौख्येषु जायन्ते कान्तजीविताः ॥ ९४॥ वियोगे सति कान्तस्य सर्वतो म्लानमूर्नयः। अन्तः शुष्यन्ति सन्तापैरम्भोजिन्यो हिमैरिव ॥ ९५ ॥ संजातरसभङ्गास्ता बहिर्वर्णमनोहराः।। अलङ्कारविनिर्मुक्ताः सुवृत्ता अपि शङ्किताः ॥९६॥ जीवन्ति क्लेशतो नित्यं प्रसादादिगुणोज्झिताः। निरीक्षितापशब्दास्तु कृतयः कुकवेरिव ॥ ९७ ॥ इदमेव परं सर्व सम्पदामास्पदं ध्रुवम् ।। शासने यजिनेन्द्राणां भक्तिरेव शुभानने ॥ ९८॥ साधारणे च सर्वेषां सुखदुःखे तनूभृताम् । अतश्चित्तसमाधानं कृत्वा भुक्ष्व पुराऽर्जितम् ॥ ९९ ॥ इत्थं सम्बोधिताबादीत्स्ववृत्तान्तमशेषतः।
वयोवेषवचश्चेष्टाः साऽपि पप्रच्छ सादरम् ॥ १००॥ १ यथौजःप्रसादादिगुणरहिताः कवेः कृतयः निरीक्षणेनैव तिरस्क्रियन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org