________________
पञ्चमः सर्गः ।
५९
अचिन्तयच्च किं कान्तो मम चैष भविष्यति । अथ वा धिगिमं दुष्टसंकल्पमशुभास्रवम् ॥ १०१ ॥ सन्त्यनेके यतो रूपचेष्टितैः सदृशा नराः। अन्यः कोऽपि तथाभूतो भविताऽयं महामनाः ॥ १०२ ॥ तस्यै जगाद सा सर्व निजवृत्तं विचक्षणा । भूत्वा समानदुःखा च सस्नेहं समुवाच ताम् ॥ १०३॥ जिनधर्मरते नित्यं तपःस्वाध्यायतत्परे । कियन्तमपि तिष्ठावः कालं भगिनि सङ्गन्ते ॥ १०४ ॥ पश्चाजज्ञातयथावृत्ते सर्वदुःखविनाशनम् । करिष्यावो महामोहमथनं निर्मलं तपः ॥ १०५ ॥ अत्रान्तरे समाज्ञाय वार्ता तां वत्सलः सताम् । समाजगाम तत्रैव श्रेष्ठी विमलसज्ञकः ॥ १०६ ॥ ततः स्तुत्वा जिनाधीशं निविष्टो निकटे तया । चक्रतुस्ते समुत्थाय प्रणामं तस्य सादरम् ॥ १०७ ॥ अभिनन्य ततोऽप्राक्षात्कुशलं नृपदेहजाम् । सलज्जा लोकयामास भगिन्या वदनं च सा ॥१०८॥ ज्ञाताकूता च सा तातं बुद्धतद्वत्तविस्तरम् । चकार मस्तकं धुत्वा चिन्तयामास सोऽप्पदैः ॥१०९॥ केदं त्रिभुवनानन्दि वयोऽस्याः शुभसूचकम् । सर्वस्वं स्मरराजस्य दशा चेयं क दारुणा ॥ ११० ॥ तदिहैवं विनिक्षिप्य व्यसने विधिनाऽधुना।
चक्रेऽमृते कथं तत्र कालकूटविमिश्रणम् ॥ १११॥ १ द्विकर्मकधातुत्वात्कर्मद्वयम् । २ ज्ञाताभिप्राया । ३ इदम् । ४ हालाहल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org