________________
५०
जिनदत्तचरित्रे
पञ्चमः सर्गः।
अथ ते यान्ति पश्यन्तो यानपात्रेण वारिधिम् । क्वचिद्वेत्रलताविद्धं द्वारं भूमीभृतामिव ॥ १ ॥ न्यायोपेतनरेन्द्राभं क्वचित् समकरं क्वचित् । तिमिराजितमत्यर्थं मुनीनामिव मानसम् ॥ २ ॥ अनेकान्तमिवात्यन्तबहुभङ्गिसमाकुलम् । समुक्ताहारमन्यत्र कान्तास्तनतटोपमम् ॥ ३॥ अधःस्थितमहामूल्यमाणिक्यं शंखकादिकम् । दर्शयन्तं वहि त्या कृपणं वार्थिनां क्वचित् ॥ ४ ॥ निर्यापकगिरा क्वाऽपि समुत्कर्णजनं क्वचित् । कर्पूरादिद्रुमस्पशिसुगन्धायातमारुतम् ॥ ५॥ एवं यावदत्तावत्सार्थवाहः स्मरातुरः। जिनदत्तप्रियारूपं समालोक्य समाकुलम् ॥६॥ भोजनं शयनं पानं वचनं काचिन्तनम् । तन्मुखाम्भोजसक्तस्य सकलं ज्वलनायितम् ॥ ७ ॥ समीरयन्ति कामाग्निं वेलावनसमीरणाः। तस्य तां ध्यायमानस्य शून्यस्येव दिवानिशम् ॥ ८॥ दृष्टं सहस्रशो रूपमबलानां मया भुवि । तदस्याश्चरणाङ्गष्ठलावण्येनाऽपि नो समम् ॥ ९॥ धन्यः स एव संसारे साऽलसायतलोचना। बलिस्वा वीक्षते विश्वसुभगं यमियं स्वयम् ॥ १० ॥ १ कटाक्षः कृत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org