Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 48
________________ चतुर्थः सर्गः । सत्येव नृत्वसामान्ये केचिदेवंविधा भुवि । परोपकारिणः सन्ति ग्रहाणां भानुमानिव ॥ ५४ ॥ किंचास्य दर्शनादेव ममानन्दस्तथाऽजनि । यथामृतरसेनेव संसिक्ता सर्वतस्तनुः ॥ ५५ ॥ विचिन्त्येति पप्रच्छाऽसौ प्राञ्जलिर्जनवल्लभम् । सस्मिता तं सलज्जा च प्रसन्ना धीरलोचना ॥ ५६ ॥ नाथाऽनुमानतो ज्ञातोऽनुभावस्तव यद्यपि । किं वृत्तमद्य यामिन्यां तथापीदं निवेदय ॥ ५७ ॥ तेनावाचि त्वमेवात्र विज्ञा सुतनु ! किं ब्रुवे । जानामि किन्तु वक्रात्ते श्रोतुं चेतः समुत्सुकम् ॥ ५८॥ यद्येवं दृश्यतां मुग्धे स्वालङ्कारकरण्डिका । तामुद्धाटयते यावत्तावदृष्टो भुजङ्गमः ॥ ५९ ॥ सर्प सति जल्पन्ती सा ततोऽपसृता जवात् । मा भैषीरिति तेनोक्तं विशालाक्षि ! विचेतनः ॥६०॥ विश्रब्धायास्ततस्तस्यास्तेनाऽकथि यथाविधि । वृत्तान्तं स्तिमिताक्षी साऽश्रौषीद्विधुवती शिरः ॥ ६१ ॥ अन्तरेऽत्र समायातः तदुदन्तबुभुत्सया । तध्यक्षस्तथालोक्य समुवाच महीपतिम् ॥ ६२॥ यथा वर्द्धस्व राजेन्द्र दिष्टया दोषविवर्जिता। अभूत्सुता महावीरः कुशली स च तिष्ठति ॥ ६३ ॥ इत्याकर्ण्य जगामाऽसौ दत्वाऽस्मै प्रचुरं धनम् । आरुह्य हस्तिनं वेगाजनैः कतिपयैरसौ ॥ ६४ ॥ १ प्रभावः। २ निशायां। ३ सर्पः। ४ मृतः । ५ कम्पयन्ती । ६ ज्ञातुमिच्छया । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102