Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 47
________________ ४२ जिनदत्तचरित्रे प्रदीपच्छायया तस्थौ स्तम्भान्तरितविग्रहः । उत्खातधौतखङ्गोऽसौ दत्तदृष्टिरितस्ततः ॥ ४३ ॥ यावत्तावन्मुखे तस्या जिह्वाद्वितयमुद्भूतम् । कम्पमानं ज्वलद्वह्निशिखाभं भयदायकम् ॥ ४४ ॥ तदालोक्य स्मितं तेन मनाग्विदितहेतुना । निर्जगाम ततो मन्दं वदनादुद्भटा फणा ॥ ४५ ॥ क्रमेण च ततः काले कालदण्ड इवापरः । निश्चक्राम महाभोगो गुआक्षो भीषणः फणी ॥ ४६ ॥ तत्तल्पतः समुत्तीर्य समारुह्याऽपरे शनैः । दशतिस्म शिरोदेशे यावत्तत्र स्थितं शवम् ॥ ४७ ॥ तावदागत्य वेगेन निहतोहिर्दयोज्झितः । तथा यथा पपाताऽसावष्टखण्डो महीतले ॥ ४८ ॥ भूषाकरण्डिकामध्यवर्तिनं तं विधाय सः । अपनीय शवं कोशस्थापितासिः सुखं स्थितः ॥ ४९ ॥ कन्यकाsपि गते व्याधौ सुखिताभूत्कृशोदरी । सुष्वाप च समुद्भूतनिराकुलतनुस्तदा ॥ ५० ॥ प्रबुद्धाऽथ ततः प्रातः पवनेन धुतांशुंका । नीलाब्जरेणुगर्भेण रतनुममुषा स्त्रियाम् ॥ ५१ ॥ उत्थिता चिन्तयामास किमिदं ननु कारणम् । सुखितानि ममाङ्गानि येनाभूदुदरं लघु ॥ ५२ ॥ उत्साहः कोऽपि सम्पन्नो गतो व्याधिर्दुरन्तकः । दुःखान्तदायको नूनमयञ्चात्र महाद्भुतः ॥ ५३ ॥ १ स्वच्छखड्गः । २ आभरणपेटिका ३ कम्पितवस्त्रा । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102