________________
४२
जिनदत्तचरित्रे
प्रदीपच्छायया तस्थौ स्तम्भान्तरितविग्रहः । उत्खातधौतखङ्गोऽसौ दत्तदृष्टिरितस्ततः ॥ ४३ ॥ यावत्तावन्मुखे तस्या जिह्वाद्वितयमुद्भूतम् । कम्पमानं ज्वलद्वह्निशिखाभं भयदायकम् ॥ ४४ ॥ तदालोक्य स्मितं तेन मनाग्विदितहेतुना । निर्जगाम ततो मन्दं वदनादुद्भटा फणा ॥ ४५ ॥ क्रमेण च ततः काले कालदण्ड इवापरः । निश्चक्राम महाभोगो गुआक्षो भीषणः फणी ॥ ४६ ॥
तत्तल्पतः समुत्तीर्य समारुह्याऽपरे शनैः । दशतिस्म शिरोदेशे यावत्तत्र स्थितं शवम् ॥ ४७ ॥ तावदागत्य वेगेन निहतोहिर्दयोज्झितः । तथा यथा पपाताऽसावष्टखण्डो महीतले ॥ ४८ ॥ भूषाकरण्डिकामध्यवर्तिनं तं विधाय सः । अपनीय शवं कोशस्थापितासिः सुखं स्थितः ॥ ४९ ॥ कन्यकाsपि गते व्याधौ सुखिताभूत्कृशोदरी । सुष्वाप च समुद्भूतनिराकुलतनुस्तदा ॥ ५० ॥ प्रबुद्धाऽथ ततः प्रातः पवनेन धुतांशुंका । नीलाब्जरेणुगर्भेण रतनुममुषा स्त्रियाम् ॥ ५१ ॥ उत्थिता चिन्तयामास किमिदं ननु कारणम् । सुखितानि ममाङ्गानि येनाभूदुदरं लघु ॥ ५२ ॥ उत्साहः कोऽपि सम्पन्नो गतो व्याधिर्दुरन्तकः । दुःखान्तदायको नूनमयञ्चात्र महाद्भुतः ॥ ५३ ॥
१ स्वच्छखड्गः । २ आभरणपेटिका ३ कम्पितवस्त्रा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org