SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। रक्षात्मानं महाभाग निजमाहात्म्ययोगतः । त्वादृशो हि महासत्त्वो दुर्लभो भुवने यतः ॥ ३२॥ इत्थं सम्भावितो राज्ञा दृष्टिगोचरमाप सः। कुमारीभुवनं भन्यो भूतसंघातभीतिदम् ॥ ३३॥ आरुरोह ततस्तत्र प्रथमां भूमिमुन्नताम् । आलुलोके च तत्रासौ दिक्चतुष्कं शनैः शनैः ॥ ३४ ॥ द्वितीयस्यामसौ दृष्टा चारुपल्यंकसङ्गता। सविकासविषादिभ्यां ग्भ्यां द्वारावलोकिनी ॥ ३५॥ तत्रालोक्य दिशः सर्वास्तदासन्ने व्यवस्थितः । स तल्पेऽनल्पकल्याणभाजनस्थामुवाच सः ॥ ३६ ॥ साऽपि संभाषणात्तस्यामस्ताऽऽत्मानं मृगेक्षणा। कृतकृत्यमिवाऽऽत्मानं हृष्टः सोऽपि तदक्षिणात् ॥ ३७ ॥ ताम्बूलादिकमादाय तया दत्तं विचक्षणः । पृष्टः प्रारब्धवानेष कथां कर्णसुधास्पदाम् ॥ ३८ ॥ यावत्तस्याः समायाता निद्रा मुद्रितचेतसः । हुङ्कारस्य विरामेण सुप्तां ज्ञात्वोत्थितश्च सः॥ ३९ ॥ चिन्तितं च किमत्राहो मरणे कारणं नृणाम् । किमेषा पूतना प्रायः किं वा रक्षोविजृम्भितम् ॥ ४० ॥ अन्यद्वाऽस्तु यथाकाममप्रमत्तो भवाम्यहम् । जागरूको न यो लोके तस्करैर्मुष्यते ध्रुवम् ॥ ४१ ॥ इत्यालोच्य समानीय मृतकं पृष्ठभूमितः। आरोप्य शयनीये च प्रच्छाद्य वरवाससा ॥ ४२ ॥ ३ अमन्यत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy