________________
जिनदत्तचरित्रे
प्राणनाशेऽपि कर्त्तव्यं परेभ्यः सुधिया हितम् । आशाः सुगन्धयत्येव दह्यमानोऽपि चन्दनः ॥ २१ ॥ स्ववाचा प्रतिपन्ना च जरतीयं मयाम्बिका । उपेक्षितुं न युक्ताऽतः सुदुःखा सुतजीविता ॥ २२ ॥ इत्यालोच्योपरोधेन महता जननी तदा । भणिता तेन साऽवादीन्महासत्त्वैवमस्त्विति ॥ २३ ॥ ततः स्नातोऽनुलिप्तश्च सर्वाभरणभूषितः । पुष्पताम्बूलसद्गन्धदिव्यवस्त्रविराजितः ॥ २४ ॥ वसुनन्दकृपाणाभ्यां भ्राजमानभुजद्वयः। विद्याधरकुमारो वा प्रतस्थे राजवर्त्मना ॥ २५ ॥ कौतुकाक्षिप्तचेतोभिर्ददृशे सकलैर्जनैः। प्रासादशिखरारूढनारीभिश्च यथा स्मरः॥२६॥ राज्ञाऽप्यमुं समालोक्याप्राकृताकारधारिणम् । पार्श्वस्थाः गदिताः कोऽयं क्व चायाति महाद्युतिः ॥ २७ ॥ कुमार्याः सदने वस्तुमिति तैः समुदीरितम् । निशम्य स्वं शुशोचासौ धिगस्तु मम जीवितम् ॥ २८ ॥ तनुजाव्याजतः सेयं कालरात्रिहे मम । अजनिष्ट जगच्छ्रेष्टनररत्नविनाशिनी ॥ २९ ॥ अहो प्रकृतिचापल्यमीदृशं मानुषायुषः । येनैषोपि महावीरो रात्रावेव विनश्यति ॥ ३०॥ अहो श्लाघ्यं कथं राज्यं मादृशां पापकर्मणाम् । ईदृशामपराधेन विना यत्र विनाशनम् ॥ ३१ ॥
१ अत्र "वा" शब्द इवार्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org